|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.289. अध्यायः 289
Mahabharata - Shanti Parva - Chapter Topics
दक्षयज्ञे भागालाभेन रुष्टस्य रुद्रस्य ललाटतटोद्गतस्वेदादग्निरूपज्वरोत्पत्तिः॥ 1॥ ब्रह्मवचनाद्रुद्गेण ज्वरस्य पृथिव्यादिषु विभजनम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-289-0x(6403)(76850)
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
अस्मिन्वृत्रवधे तात विवक्षा मम जायते॥ 12-289-1(76851)
ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप।
निहतो वासवेनेह वज्रेणेति ममानघ॥ 12-289-2(76852)
कथमेष महाप्राज्ञ ज्वरः प्रादुर्बभूव ह।
ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो॥ 12-289-3(76853)
भीष्म उवाच। 12-289-4x(6404)
शृणु राजञ्ज्वरस्येमं संभवं लोकविश्रुतम्।
विस्तरं चास्य वक्ष्यामि यादृशश्चैव भारत॥ 12-289-4(76854)
पुरा मेरोर्महाराज शृङ्गं त्रैलोक्यविश्रुतम्।
ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम्॥ 12-289-5(76855)
अप्रमेयमनाधृष्यं सर्वलोकेषु भारत।
तत्र देवो गिरितटे हेमधातुविभूषिते॥ 12-289-6(76856)
पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह।
शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ।
तथा देवा महात्मानो वसवश्चामितौजसः॥ 12-289-7(76857)
तथैव च महात्मानावश्विनौ भिषजां वरौ।
तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः॥ 12-289-8(76858)
यक्षाणामीश्वरः श्रीमान्कैलासनिलयः प्रभुः।
`शङ्खपद्मनिधिभ्यां च लक्ष्म्या परमया सह।'
उपासन्त महात्मानमुशना च महाकविः॥ 12-289-9(76859)
सनत्कुमारप्रमुखास्तथैव च महर्षयः।
अङ्गिरः प्रमुखाश्चैव तथा देवर्षयोऽपरे॥ 12-289-10(76860)
विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ।
अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः॥ 12-289-11(76861)
ववौ सुखः शिवो वायुर्नानागन्धवहः शुचिः।
सर्वर्तुकुसुमोपेताः पुष्पवन्तो द्रुमास्तथा॥ 12-289-12(76862)
तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः।
महादेवं पशुपतिं पर्युपासन्त भारत॥ 12-289-13(76863)
भूतानि च महाराज नानारूपधराण्यथ।
राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः॥ 12-289-14(76864)
बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः।
देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः॥ 12-289-15(76865)
नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः।
प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा॥ 12-289-16(76866)
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा।
पर्युपासत तं देव रूपिणी कुरुनन्दन॥ 12-289-17(76867)
स एवं भगवांस्तत्र पूज्यमानः सुरर्षिभिः।
देवैश्च सुमहातेजा महादेवो व्यतिष्ठत॥ 12-289-18(76868)
कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः।
पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत॥ 12-289-19(76869)
ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः।
गमनाय समागम्य बुद्धिमापेदिरे तदा॥ 12-289-20(76870)
ते विमानैर्महात्मानो ज्वलनार्कसमप्रभैः।
देवस्यानुमतेऽगच्छन्गङ्गाद्वारमिति श्रुतिः॥ 12-289-21(76871)
प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा।
उवाच वचनं साध्वी देवं पशुपतिं पतिम्॥ 12-289-22(76872)
भगवन्क्वनु यान्त्येते देवाः शक्रपुरोगमाः।
ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम्॥ 12-289-23(76873)
महेश्वर उवाच। 12-289-24x(6405)
दक्षो नाम महाभागे प्रजानां पतिरुत्तमः।
हयमेधेन जयते तत्र यान्ति दिवौकसः॥ 12-289-24(76874)
उमोवाच। 12-289-25x(6406)
यज्ञमेतं महादेव किमर्थं नाधिगच्छति।
केन वा प्रतिषेधेन गमनं ते न विद्यते॥ 12-289-25(76875)
महेश्वर उवाच। 12-289-26x(6407)
सुरैरेव महाभागे पूर्वमेतदनुष्ठितम्।
यज्ञेषु सर्वेषु मम न भाग उपकल्पितः॥ 12-289-26(76876)
पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि।
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः॥ 12-289-27(76877)
उमोवाच। 12-289-28x(6408)
भगवन्सर्वभूतेषु प्रभावाभ्यधिको गुणैः।
अजय्यश्चाप्यधृष्यश्च तेजसा यशसा श्रिया॥ 12-289-28(76878)
अनेन ते महाभाग प्रतिषेधेन भागतः।
अतीव दुःखमुत्पन्नं वेपथुश्च ममानघ॥ 12-289-29(76879)
भीष्म उवाच। 12-289-30x(6409)
एवमुक्त्वा तु सा देवी देवं पशुपतिं पतिम्।
तुष्णींभूताऽभवद्राजन्दह्यमानेन चेतसा॥ 12-289-30(76880)
अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम्।
स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम्॥ 12-289-31(76881)
ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः।
तं यज्ञं स महातेजा भीमैरनुचरैस्तदा॥ 12-289-32(76882)
सहसा घातयामास देवदेवः पिनाकधृत्।
केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे॥ 12-289-33(76883)
रुधिरेणापरे राजंस्तत्राग्निं समवाकिरन्।
केचिद्यूपान्समुत्पाट्य व्याक्षिपन्विकृताननाः॥ 12-289-34(76884)
आस्यैरन्ये चाग्रसन्त तथैव परिचारकान्।
ततः स यज्ञो नृपतेर्वध्यमानः समन्ततः॥ 12-289-35(76885)
आस्थाय मृगरूपं वै स्वमेवाभ्यगमत्तदा।
तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः॥ 12-289-36(76886)
धनुरादाय बाणेन तदान्वसरत प्रभुः।
ततस्तस्य सुरेशस्य क्रोधादमिततेजसः॥ 12-289-37(76887)
ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह।
तस्मिन्यतितमात्रे च स्वेदबिन्दौ तदा भुवि॥ 12-289-38(76888)
प्रादुर्बभूव सुमहानग्निः कालानलोपमः।
तत्र चाजायत तदा पुरुषः पुरुषर्षभ॥ 12-289-39(76889)
ह्रस्वोऽतिमात्रं रक्ताक्षो हरिश्मश्रुर्विभीषणः।
ऊर्ध्वकेशोऽतिरोमाङ्गः श्येनोलूकस्तथैव च॥ 12-289-40(76890)
करालकृष्णवर्णश्च रक्तवासास्तथैव च।
तं यज्ञं सुमहासत्वोऽदहत्कक्षमिवानलः॥ 12-289-41(76891)
व्यचरत्सर्वतो देवान्प्राद्रवत्स ऋषींस्तथा।
देवाश्चाप्याद्रवन्सर्वे ततो भीता दिशो दश॥ 12-289-42(76892)
तेन तस्मिन्विचरता पुरुषेण विशांपते।
पृथिवी ह्यचलद्राजन्नतीव भरतर्षभ॥ 12-289-43(76893)
हाहाभूतं जगत्सर्वमुपलक्ष्य तदा प्रभुः।
पितामहो महादेवं दर्शयन्प्रत्यभाषत॥ 12-289-44(76894)
ब्रह्मोवाच। 12-289-45x(6410)
भवतोपि सुराः सर्वे भागं दास्यन्ति वै प्रभो।
क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया॥ 12-289-45(76895)
इमा हि देवताः सर्वा ऋषयश्च परंतप।
तव क्रोधान्महादेव न शान्तिमुपलेभिरे॥ 12-289-46(76896)
यश्चैष पुरुषो जातः स्वेदात्ते विबुधोत्तम।
ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति॥ 12-289-47(76897)
एकीभूतस्य न त्वस्य धारणे तेजसः प्रभो।
समर्था सकला पृथ्वी बहुधा सृज्यतामयम्॥ 12-289-48(76898)
इत्युक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते।
भगवन्तं तथेत्याह ब्रह्माणममितौजसम्॥ 12-289-49(76899)
परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृत्।
अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः॥ 12-289-50(76900)
ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत्तदा।
शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक॥ 12-289-51(76901)
शीर्षाभितापो नागानां पर्वतानां शिलाजतु।
अपां तु नीलिकां विद्धि निर्मोकं भुजगेषु च॥ 12-289-52(76902)
खोरकः सौरभेयाणामूषरं पृथिवीतले।
पशूनामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम्॥ 12-289-53(76903)
रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम्।
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना॥ 12-289-54(76904)
अवीनां पित्तभेदश्च सर्वेषामिति नः श्रुतम्।
शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः॥ 12-289-55(76905)
शार्दूलष्वथ धर्मज्ञ श्रमो ज्वर इहोच्यते।
मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः॥ 12-289-56(76906)
मरणे जन्मनि तथा मध्ये चाविशते नरम्।
एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः॥ 12-289-57(76907)
नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः।
अनेन हि समाविष्टो वृत्रो धर्मभूतां वरः॥ 12-289-58(76908)
व्यजृम्भत ततः शक्रस्तस्मै वज्रमवासृजत्।
प्रविश्य बज्रं वृत्रं च दारयामासं भारत॥ 12-289-59(76909)
दारितश्च स वज्रेण महायोगी महासुरः।
जगाम परमं स्थानं विष्णोरमिततेजसः॥ 12-289-60(76910)
विष्णुभक्त्या हि तेनेदं जगद्व्याप्तमभूत्पुरा।
तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान्॥ 12-289-61(76911)
इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया।
विस्तरः कथितः पुत्र किमन्यत्प्रब्रवीमि ते॥ 12-289-62(76912)
इमां ज्वरोत्पत्तिमदीनमानसः
पठेत्सदा यः सुसमाहितो नरः।
विमुक्तरोगः स सुखी मुदा युतो
लभेत कामान्स यथा मनीषितान्॥ ॥ 12-289-63(76913)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोननवत्यधिकद्विशततमोऽध्यायः॥ 289॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-289-6 सिद्धं लोकेषु भारतेति ट. थ. पाठः॥ 12-289-15 तस्थिरे चाचलोपमा इति ध. पाठः॥ 12-289-21 ज्वलितैर्ज्वलनप्रभैरिति ट. थ. ध. पापः॥ 12-289-26 सर्वमेतदनुष्ठितमिति ट. ध. पाठः॥ 12-289-28 प्रभवस्यधिको गुणैरिति ध. पाठः॥ 12-289-32 सर्वलोकमहेश्वर इति ध. पाठः॥ 12-289-36 आधाय मृगरूपं इति ध. पाठः॥ 12-289-40 ऊर्ध्वकेशोतिरिक्ताङ्ग इति थ. पाठः॥ 12-289-44 हाहाभूते प्रवृत्ते तु नादे लोकभयंकरे इति ट. ध. पाठः॥ 12-289-52 शिलाजतु धातुविशेषः। नीलिका शैवालम्॥ 12-289-53 खोरकः पशूनां पादरोगः॥ 12-289-54 रन्ध्रागतं अश्वगलरन्ध्रगतं मांसखण्डम्। रन्ध्रोद्रमनमश्वानामिति ट. थ. पाठः। रन्ध्रोद्भवश्च मत्स्यानामिति ध. पाठः॥ 12-289-55 पित्तभेदश्च सर्वेषां प्राणिनामिति नः श्रुतमिति ट. ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|